क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः।

क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनःक्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः।क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्॥ नीतिशतकम् क्वचित् somewhere, sometimes, anywhere अव्ययम् पृथ्वीशय्य sleeping on earth प्रथमैकवचनान्त:(पु)→ पृथ्वीशय्यः अपि also अव्ययम् पर्यङ्कशयन sleeping on the bed प्रथमैकवचनान्त:(पु) → पर्यङ्कशयनः शाकाहार eats only the vegetables प्रथमैकवचनान्त:(पु) → शाकाहारः शाल्योदनरुचि tasty food made of boiled riceContinue reading “क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः।”

रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।

रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।सुधां विना न प्रययुर्विरामम्न निश्चितार्थाद्विरमन्ति धीराः॥८१॥ नीतिशतकम् रत्न gem, jewel तृतीयाबहुवचनान्त:(न)→ रत्नै: महार्ह precious, valuable तृतीयाबहुवचनान्त:(न)→ महार्है: तुष् to be satisfied प्रथम पुरुष परोक्षभूतकालवाचक बहुवचनम् → तुतुषुः न not अव्ययम् देव god प्रथमाबहुवनान्त:(पु)→ देवा: न not अव्ययम् भज् to experience प्रथम पुरुष परोक्षभूतकालवाचक बहुवचनम्→ भेजिरे भीमविष frightening poison तृतीयैकवचनान्त:(न)→Continue reading “रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।”

किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव।

किं तेन हेमगिरिणा रजताद्रिणा वायत्राश्रिताश्च तरवस्तरवस्त एव।मन्यामहे मलयमेव यदाश्रयेणकङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः॥८०॥ नीतिशतकम् किम् particle of interrogation अव्ययम् तद् third person pronoun तृतीयैकवचनान्त:(पु)→ तेन हेमन् gold गिरि mountainहेमगिरि golden mountain (Sumeru) तृतीयैकवचनान्त:(पु)→ हेमगिरिणा रजत silver अद्रि mountain रजताद्रि silvery mountain (Kailash) तृतीयैकवचनान्त:(पु)→ रजताद्रिणा वा or अव्ययम् यत्र where अव्ययम् आश्रि to inhabit कर्मणि भूतकालवाचक धातुसाधितContinue reading “किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव।”

मनसि वचसि काये पुण्यपीयूषपूर्णा: त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।

मनसि वचसि काये पुण्यपीयूषपूर्णा:त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।परगुणपरमाणून्पर्वतीकृत्य नित्यम्निजहृदि विकसन्तः सन्ति सन्तः कियन्त:॥७९॥ नीतिशतकम् मनस् mind सप्तम्येकवचनान्त:(न)→ मनसि वचस् speech सप्तम्येकवचनान्त:(न)→ वचसि काय body सप्तम्येकवचनान्त:(पु)→ काये पुण्य meritपीयूष nectar पूर्ण full पुण्यपीयूषपूर्ण full of nectar of merit प्रथमाबहुवचनान्त:(पु)→ पुण्यपीयूषपूर्णाः त्रिभुवन three worlds द्वितीयैकवचनान्त:(न)→ त्रिभुवनम् उपकार favour, kindness, obligation श्रेणि row, range, series, succession, troop, flock, multitude, numberउपकारश्रेणि numberContinue reading “मनसि वचसि काये पुण्यपीयूषपूर्णा: त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।”

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाःसत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम्।मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम्॥७८॥ नीतिशतकम् तृष्णा thirst, desire, greed द्वितीयैकवचनान्त:(स्त्री)→ तृष्णाम् छिद् to break, to destroy मध्यम पुरुष आज्ञार्थ एकवचनम् → छिन्धि भज् practise, follow, cultivate, observe मध्यम पुरुष आज्ञार्थ एकवचनम्→ भज क्षमा forgiveness, patience, forbearance द्वितीयैकवचनान्त:(स्त्री)→Continue reading “तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः”

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्  इतश्च शरणार्थिनां शिखरिणां गणाः शेरते।इतोऽपि वडवानलः सह समस्तसंवर्तकै:  अहो विततमूर्जितं भारसहं च सिन्धोर्वपुः॥७७॥ नीतिशतकम् इतस्‌ here अव्ययम् स्वप् to sleep प्रथम पुरुष वर्तमानकालवाचक एकवचनम् → स्वपिति केशव epithet of Viṣṇu प्रथमैकवचनान्त:(पु)→ केशवः कुल house, abode, family प्रथमैकवचनान्त:(न)→ कुलम् इतस्‌ here अव्ययम् तदीय belonging to him/her/that द्विष् enemy तदीयद्विष् his enemy षष्ठीबहुवचनान्त:(पु)→Continue reading “इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्”

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः  क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशाणौ हुतः।गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं  युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी॥७६॥ नीतिशतकम् क्षीर milk तृतीयैकवचनान्त:(न)→ क्षीरेण आत्म selfगत goneआत्मगत gone to oneself उदक water आत्मगतोदक water gone inside it (milk)चतुर्थ्येकवचनान्त:(न)→ आत्मगतोदकाय हि indeed, surely अव्ययम् गुण merit, quality प्रथमाबहुवचनान्त:(पु)→ गुणा: दा to giveContinue reading “क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः”

एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये

एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य येसामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।तेऽमी मानुषराक्षषाः परहितं स्वार्थाय निघ्नन्ति येये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥७५॥ नीतिशतकम् एतद् this प्रथमाबहुवचनान्त:(पु)→ एते सत्पुरुष noble प्रथमाबहुवचनान्त:(पु)→ सत्पुरुषाः परार्थ other’s interest घटक striving forपरार्थघटक striving for other’s interest प्रथमाबहुवचनान्त:(पु)→ परार्थघटकाः स्वार्थ self-interest द्वितीयैकवचनान्त:(पु)→ स्वार्थम् परित्यज् to give up पूर्वकालवाचक धातुसाधित अव्ययम् → परित्यज्यContinue reading “एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये”

पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।

पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्। नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः॥७४॥ नीतिशतकम् पद्माकर tank abounding in lotuses, an assemblage of lotuses द्वितीयैकवचनान्तः(पु)→ पद्माकरम् दिनकर Sun प्रथमैकवचनान्तः(पु)→ दिनकर: विकचीकृ open, expand प्रथम पुरुष वर्तमानकालवाचक एकवचनम् → विकचीकरोति चन्द्रस् Moon प्रथमैकवचनान्तः(पु)→ चन्द्र: विकस् cause to open or expand or blow or shine प्रथम पुरुषContinue reading “पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।”

पापान्निवारयति योजयते हितायगुह्यं च गूहति गुणान्प्रकटीकरोति।

पापान्निवारयति योजयते हितायगुह्यं च गूहति गुणान्प्रकटीकरोति।आपद्गतं च न जहाति ददाति कालेसन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥७३॥ नीतिशतकम् पाप vice, crime, sin पञ्चम्येकवचनान्त:(न)→ पापात्  नि-वृ to prevent from प्रथम पुरुष वर्तमानकालवाचक एकवचनम् (प्रायोजक)→ निवारयति  युज् to turn or direct towards प्रथम पुरुष वर्तमानकालवाचक एकवचनम् (प्रायोजक)→ योजयते  हित fit, suitable, beneficial चतुर्थ्येकवचनान्त:(न)→ हिताय  गुह्य secret द्वितीयैकवचनान्त:(न)→ गुह्यम् च and अव्ययम्Continue reading “पापान्निवारयति योजयते हितायगुह्यं च गूहति गुणान्प्रकटीकरोति।”

Design a site like this with WordPress.com
Get started